राधा षोडशनामस्तोत्रम्, वृंदावन की श्री राधा जू के 16 नामों का एक स्तोत्र है, जिसे भगवान नारायण ने प्रकट किया है.
श्रीनारायण उवाच
राधा रासेश्वरी रासवासिनी रसिकेश्वरी ।
कृष्णाप्राणाधिका कृष्णप्रिया कृष्णस्वरूपिणी ॥1॥
कृष्णवामाङ्गसम्भूता परमानन्दरूपिणी ।
कृष्णा वृन्दावनी वृन्दा वृन्दावनविनोदिनी ॥2॥
चन्द्रावली चन्द्रकान्ता शरच्चन्द्रप्रभानना ।
नामान्येतानि साराणि तेषामभ्यन्तराणि च ॥3॥
राधेत्येवं च संसिद्धौ राकारो दानवाचकः ।
स्वयं निर्वाणदात्री या सा राधा परिकिर्तिता ॥4॥
रासेश्वरस्य पत्नीयं तेन रासेश्वरी स्मृता ।
रासे च वासो यस्याश्च तेन सा रासवासिनी ॥5॥
सर्वासां रसिकानां च देवीनामीश्वरी परा ।
प्रवदन्ति पुरा सन्तस्तेन तां रसिकेश्वरीम् ॥6॥
प्राणाधिका प्रेयसी सा कृष्णस्य परमात्मनः ।
कृष्णप्राणाधिका सा च कृष्णेन परिकीर्तिता ॥7॥
कृष्णस्यातिप्रिया कान्ता कृष्णेन वास्याः प्रियः सदा ।
सर्वैर्देवगणैरुक्ता तेन कृष्णप्रिया स्मृता ॥8॥
कृष्णरूपं संनिधातुं या शक्ता चावलीलया ।
सर्वांशौः कृष्णसदृशी तेन कृष्णस्वरूपिणी ॥9॥
वामाङ्गार्धेन कृष्णस्य यां सम्भूता परा सती ।
कृष्णवामाङ्गसम्भूता तेन कृष्णेन कीर्तिता ॥10॥
परमानन्दराशिश्च स्वयं मूर्तिमती सति ।
श्रुतिभिः कीर्तिता तेन परमानन्दरूपिणी ॥11॥
कृषिर्मोक्षार्थवचनो न एवोत्कृष्टवाचकः ।
आकारो दातृवचनस्तेन कृष्णा प्रकीर्तिता ॥12॥
अस्ति वृन्दावनं यस्यास्तेन वृन्दावनी स्मृता ।
वृन्दावनस्याधिदेवी तेन वाथ प्रकीर्तिता ॥13॥
सङ्घः सखीनां वृन्दः स्यादकारोऽप्यस्तिवाचकः ।
सखिवृन्दोऽस्ति यस्याश्च सा वृन्दा परिकीर्तिता ॥14॥
वृन्दावने विनोदश्च सोऽस्या ह्यस्ति च तत्र वै ।
वेदा वदन्ति तां तेन वृन्दावनविनोदिनीम् ॥15॥
नखचन्द्रावली वक्त्रचन्द्रोऽस्ति यत्र संततम् ।
तेन चन्द्रावली सा च कृष्णेन परिकीर्तिता ॥16॥
कान्तिरस्ति चन्द्रतुल्या सदा यस्या दिवानिशम् ।
सा चन्द्रकान्ता हर्षेण हरिणा परिकीर्तिता ॥17॥
शरच्चन्द्रप्रभा यस्याश्चाननेऽस्ति दिवानिशम् ।
मुनिना कीर्तिता तेन शरच्चन्द्रप्रभानना ॥18॥
इदं षोडशनामोक्तमर्थव्याख्यानसंयुतम् ।
नारायणेन यद्दत्तं ब्रह्मणे नाभिपङ्कजे ।
ब्रह्मण च पुरा दत्तं धर्माय जनकाय मे ॥19॥
धर्मेण कृपया दत्तं मह्यमादित्यपर्वणि ।
पुष्करे च महातीर्थे पुण्याहे देवसंसदि ।
राधाप्रभावप्रस्तावे सुप्रसन्नेन चेतसा ॥20॥
इदं स्तोत्रं महापुण्यं तुभ्यं दत्तं मया मुने ।
निन्दकायावैष्णवाय न दातव्यं महामुने ॥21॥
यावज्जीवमिदं स्तोत्रं त्रिसंध्यं यः पठेन्नरः ।
राधामाधवयोः पादपद्मे भक्तिर्भवेदिह ॥22॥
अन्ते लभेत्तयोर्दास्यं शश्वत्सहचरो भवेत् ।
अणिमादिकसिद्धिं च सम्प्राप्य नित्यविग्रहम् ॥23॥
व्रतदानोपवासैश्च सर्वैर्नियमपूर्वकैः ।
चतुर्णां चैव वेदानां पाठैः सर्वार्थसंयुतैः ॥24॥
सर्वेषां यज्ञतीर्थानां करणैर्विधिबोधितैः ।
प्रदक्षिणेन भूमेश्च कृत्स्नाया एव सप्तधा ॥25॥
शरणागतरक्षायामज्ञानां ज्ञानदानतः ।
देवानां वैष्णवानां च दर्शनेनापि यत् फलम् ॥26॥
तदेव स्तोत्रपाठस्य कलां नार्हति षोडशीम् ।
स्तोत्रस्यास्य प्रभावेण जीवन्मुक्तो भवेन्नरः ॥27॥
ऐसा कहा जाता है कि जो भक्त प्रतिदिन इन 16 नामों का जाप करता है, उसे सौभाग्य, धन और प्रेम के रूप में बरसाने वाली श्री राधा जू की कृपा प्राप्त होती है. राधा रानी के ये 16 नाम निम्नलिखित है :-
राधा
रासेश्वरी
रासवासिनी
रसिकेश्वरी
कृष्णप्राणाधिका
कृष्णप्रिया
कृष्णस्वरूपिणी
कृष्णवामाङ्गसम्भूता
परमानन्दरूपिणी
कृष्णा
वृन्दावनी
वृन्दा
वृन्दावनविनोदिनी
चन्द्रावली
चन्द्रकान्ता
शरच्चन्द्रप्रभानना
पलक सिधवानी का जीवन परिचय
अदिति जेटली जडेजा वाइफ ऑफ अजय जडेजा
रिवाबा जडेजा वाइफ ऑफ सर रविंद्र जडेजा
केवी कुटीर कुमार विश्वास का इको फ्रेंडली घर
शिल्पा शिरोडकर का जीवन परिचय
श्री कृष्ण जन्माष्टमी उत्सव और उसका महत्त्व
सपना चौधरी वाइफ ऑफ़ प्रवीण कुमार
अनसूया सेनगुप्ता एन एक्ट्रेस एंड प्रोडक्शन डिज़ाइनर
हनुमान भक्त महाराज धीरेंद्र कृष्ण शास्त्री बागेश्वर धाम सरकार
आयुष बडोनी का जीवन परिचय
पितृ पक्ष में कौवें को खाना खिलाने का वैज्ञानिक महत्त्व
ब्यूटीफुल मेहंदी डिज़ाइनस फॉर करवा चौथ
भुवनेश्वर कुमार का जीवन परिचय
प्रेमानंद जी महाराज श्री राधा जू के परम भक्त
किस्सा सौरव गांगुली और डोना की शादी का